சனி, 11 மே, 2013

Sri Vishnu padhathi kesantha sthotram final part

The final part of Sri A V Gopalacharyar swami’s commentary for “Sri Vishnu padhathi kesantha sthotram” is available for download at
http://www.mediafire.com/view/?yoj43s235dpw3h2
It is available here also

வெள்ளி, 10 மே, 2013

Sri Vishnu Pathadhi kesantha sthothram part 6

Part 6 of Sri A.V. Gopalachariar’s commentary for Sri AdhiSankara Bhagavath padar’s “Sri Vishnu paathaadhi kesantha sthothram” is now available for download at

http://www.mediafire.com/view/?s1jdinxe8ea7is3

It is available here also.

Vishnu Pathaadhi kesantha varnanam part 6 by Raguveeradayal Thiruppathi Iyengar

வியாழன், 9 மே, 2013

Sri sathyaadrinaatha stavam

Sri Satyaadrinatha stavam  is authored by Sri R.Kesava Iyengar . Written in praise of Sathyamurthy Perumal of Thirumeyyam, it is in the “Sanga” style of Sri R.Kesava Iyengar and definitely requires some notes/commentaries by Sanskrit scholars.

I have inserted the first few stanzas from he “Stavam” here. I will add the remaining periodically. Expecting some scholars to help in understanding this.

||श्री:||

||श्रीमतेश्रीलक्ष्मीनृसिंहपरब्रह्मणे नम:||

||श्रीसत्याद्रिनाथस्तव:||

वेङ्कटेशपदांभोजं करुणातरुणारुणम्|

निश्रेयसनिदानं तत्परमं शरणंवृणे|| १

सतामेकगतिं श्रीमत्सत्याचलविहारिणम्|

सिंहसंहननं वन्दे कमलारमणंपरम्|| २

अस्पृष्टावद्यमक्षाम्यमद्वाक्यैरप्यदूषितम्|

सकलोक्तिविधेयं तं पवित्रं परमंजुषे|| ३

अस्पृष्टासत्यगन्धोक्तिं सत्यश्रुतिविकस्परम्|

मधुरोक्तिमहिष्ठं तं महाकविमहंभजे|| ४

यथावदनुसंदृष्टपरावरपराशरम्|

परमोदारभावं तं प्रणमामि मुनीश्वरम्|| ५

जीवनंनिगमान्तानां विदन्ति यदनुग्रहम्|

सत्यतो भासितार्थं तं वन्दे सत्यवतीसुतम्|| ६

महिम्नैव मुनेर्यस्य हरि: स्पृशति मेदिनीम्|

श्रीमतस्सत्यमूर्तिं तं शठकोपमुपास्महे|| ७

यदुदारवचस्सत्यं सत्यसञ्जीवनं विदु:|

विदिताखिलशाखास्तं यामुनंमनवामहै|| ८

येनैव साध्यते नित्यं सत्यता सर्वदेहिन:|

सिद्धस्साध्यस्स सर्वीयो भगवान्भातु लक्ष्मण:|| ९

अनुभावोऽखिलार्याणां स्वेनैव विनिवेश्यते|

यस्मिन्भगवता नित्यं वेदान्तार्यं तमाश्रये|| १०

पुनरेव पवित्रार्यत्रितयाङिघ्रसमाहृति:|

यन्मयी भाति भूयिष्ठो वण्शठारिस्सपातु न:|| ११

महान्योगीशानो महितविहगेशाचलशिरो

मृगेन्द्रोत्ताराङ्घ्रिस्फुरणाह्रुदयाकाशमहिमा|

नमोवाकोल्लाघप्रतिफलदनर्घाङ् घ्रिगरिमा

सदा श्रीरङ्गेशो जयतु हृदयाब्जे ममगुरु:|| १२

ध्यात्वा नित्यनिरामयाच्छम धनांस्ताट्टग्विपश्वित्तमां

स्तेजिष्ठान्मुनिपुङ्गवाच्छुकमुखान्धीरानुदाराशयान्|

भद्रोन्निद्रदयामयोद्धतसुधासत्योक्तिनित्योन्नतान्

ध्यातुं किञ्जिदकिञ्जिनैकशरणं देवम् तमेवं यते||

सन्तो यमादिकवय: शरणम् सतामि-

त्याहु र्महापुरुषमेव रमासहायम्|

स्वैरं स्तवोक्तिविधयैव विडम्बयंस्तान्

देवं तमेवममिनन्तुमहं प्रवृत्त:||

विश्वोपप्लववारणं किमपि तद्धिश्वंमहमङ्गलं

विश्वानन्दमयं निरामयपदं विश्वैकरक्षोज्वलम्|

विष्णुत्वद्विगुणोत्कटप्रकटितोत्सीमोत्तमत्वं पुन-

र्विश्वातितविशोकमेकममलं सत्यं परं धीमहि||

यस्सत्याकृतिरुच्चकार भगवाञ्छन्द: शिरांसिखयं

भूयस्फारशरण्यतोज्वलतनुस्वच्छन्दविर्योत्कट:|

सत्याद्रीश्वरमाश्रयेम परं लक्ष्मीनिवासंनिधिं

पूर्णं तंनमतां पुराणपुरुषं स्तम्भावताराद्भुतम्||

सुखमिदमनुभाव्यं देहिभिपादपद्म

फलमिहपरिपूर्णं भातु पूर्णप्रपत्ते:|

इतिकिलपरिपूर्णो विष्फुरन्मूलपाद:

परमशयनमिश: श्रीपति: पर्यगृह्णात्||

सहजनिजदयां तां वर्धयन्त्सत्यशैले

प्रणतशुभसमृद्धयै सत्यपञ्चास्यमूर्ति:|

निखिलनयनलक्ष्यं बोधयन्पादपद्मं

शयनमखिलबन्धुश्रीधर: रवीचकार||

भरितमुहुरपायं कायमायम्यभूयोऽ–

प्यभिदुरचतुरोद्यद्योगवेगाधिरूढा:|

अवगतपुटपाकोद्वेगत: कान्दिशीका:

स्वरसमहदुपायं तं परं प्रार्थयन्ते||

अनाधिगतविशालश्रीनिवासाङिघ्रतत्व:

सुरपतिभवने वा सञ्चरिष्णुस्सुखार्थम्|

अविदितसुखगान्धि हिन्त तत्राप्यनडवा—

निव चरति तदर्थं कर्षणक्लेशदीन:||

बहुमतपुरुहूताद्याधिराज्योत्कटाशा:

लुटति बुधजनोऽपि क्लिष्टकर्मप्रतिष्ठ:|

स्वपरघटितनित्यस्वस्वरूपानभि:

परिचितपरविद्यां हन्त दूरिकरोति||

अपिमुनिभिरमेद्यो हृन्दि निर्दह्य भिन्दन्

ज्वलति हृदयमूले कर्कश: कोऽपिकाम:|

स्वकरणविधिरेक: कल्पते तन्निवृत्ते-

रितिदृढमाभिदध्यौ साराथिस्सत्यकाम:||

असत्यसङ्कल्पकलोत्कटाशा-

मरिचिकावञ्चितधीप्रपञ्चा:|

अने प्रबुद्धाᳲपरमं पुमर्थं

यमेव जानान्ति पुर स्स भाति||

स्फुटज्जठरपूरणस्फुटवितीर्णसर्वेन्द्रिया:

सदाधृतधनायया रचितयाचनाभूमिका:|

निरर्थकमनोरथत्रुटितदुर्विधा स्सर्वधा

कथं तव पदस्मृति र्नरहरे भवेदिदृशाम् ||

नभइव विमलाभं साधुसन्ध्यानुविद्धं

स्वगुणपरिमलश्रीशब्दनित्याश्रयंत्वम् |

सुखमयशुभपूर्णं ब्रह्म सत्यानुभावं

परममभिविभासि श्रीधरं भूधरेऽस्मिन् ||

अपिमुनिभिरचिन्त्यञ्चित्रमेतत्तदास्तां
क्षटिति सुघटितं ते नारसिंहस्वरूपम् |

हृदयमतिदयद्रिं दर्शयंस्तावकीनं

जयसि हृदयमुग्रं दारयन्दानवस्य ||

श्रीमान्दधे निजमनस्तनुमन्यपूर्वां

स्तम्भे भवान्युगपदेव सुरारीक्लृप्ते|

उद्वेलयन्बहुगुणं स्वगतं विबुवं

तत्पूर्वमेव विददार किलास्य वक्ष: ||

हन्त स्वयं मनुजसिंह वितीर्य तस्मै

प्रत्यग्रमुत्कमणमाग्रिमदानवाय|

अन्यैर्दुरापमखिलै र्भगवन्विभासि

विस्तीर्य देव युगपत्प्रथमोतमत्वम्||

उच्चैरक्लृप्तचरवीर्यपुनर्भवैस्तै-

रुल्लाघतोज्वलचराचरमुच्चकर्थ |

यैरेव धूतनिरयै स्खयमात्मभाजां

श्रीमत्त्वपूर्णमपुनर्भवमातनोषि ||

उद्धाटिता भ्रुकुटिकिङ्करताप्रसिद्धा:

सृज्येषु हन्त्त चतुराननशङ्कराद्या:

वक्ते कृतभ्रुकुटिविभ्रमतामहत्ता-

विष्फारिए निगमसिम्नि भवत्प्रभावत्||

जृम्भद्रक्षकातासमृद्धभुवनत्राणायत-

स्फायन्मङ्गलापिङ्गलोज्ज्वलसटाविस्तीर्णविश्वावन:|

सिम्हत्पुर्षताप्रकाशितानिजश्रीपौरुषोत्कर्षत-

स्त्दृक्स्वैरविहारविश्वमहिमव्याहार विभ्राजसे ||

रक्षासङ्गलनामयैवमविमृश्याकारकारि हरि-

र्विश्वाकारमयो विभासि परमब्रह्माभिधान: पुन:|

हन्तैवं वटते सदात्वयिहरे सर्वं यथावत्प्रभो

सर्वीयस्त्वमतस्तथैव जयसि प्रत्यक्षतो धीमताम् ||

स्वयनिगमकीर्तिश्रीमतां कालरात्रिं

निरयमयहिरण्यं शाश्वतश्रीशरण्य:

ज्वलिअनिजनखाग्रौ रम्यवस्कन्द्य:

प्रतिपदमवसिस्म त्वत्पदं तत्परं त्वम्||

मेयं रमामयमभू: परमानुभावं

दिव्यत्त्रयीमय सटापटलैकमानम्|

तादृक्प्रभावनिजभावसमग्रसत्यं

निर्व्याजमुत्तरलरक्षणलक्षणं त्वम्||

स्थूणामणिप्रणयपूरणगर्भरूपे

जाते धृताचरचरात्मगभीरगर्भे|

धीरास्तदा मुमुदिरे निगमप्रसूनं

पादारविन्दयुगले भवतो निवेश्य||

मालिभूयमिलन्निरर्गलचलत्कालिकरालिमुखो

न्मीलत्तादृशनिर्विघातकलनाज्वालालिजिह्वाल ते|

छन्दःपावमन्त्रराजकलया जाज्वल्यमानात्मने

प्रतयज्चञ्जुहवांबभूव भुवनम् श्रुत्यन्तभाराञ्जितम्||

திங்கள், 6 மே, 2013

Saranagati Deepikai tele-upanyasam dated 06-05-2013

 

“Saranagati Deepikai” tele-upanyasam by Sri Natteri swamy on 06-05-2013 can be downloaded from this link

http://www.mediafire.com/?7i3c52q5dcuyy8n

Those who like to listen on line may play this file