திங்கள், 20 ஏப்ரல், 2020

ஸ்ரீ தேசிக அஷ்டோத்ரம் உத்தர பஞ்சாஸத் நாமம் 61

61. चतुश्लोक्यर्थ-सारज्ञः

चतुश्लोक्याः अर्थसारं (=श्रियः उभयविभूतिशेषित्व पुरुषकारत्व पुरुषार्थप्रदत्व उभयेच्छासिद्ध-पारतन्त्र्यरूपं सारार्थं) जानाति इति चतुश्लोक्यर्थसारज्ञः ।

    अत्रायं चतुश्लोकी-भाष्यसङ्ग्रहः । भगवतः सर्वप्रकार-अभिमत-अनुरूपसहधर्म चारिणी विशिष्टतयापि सर्वाधिकत्वं वक्तुं श्रियो विभूतिद्वय-शेषित्वादिकं आह ‘कान्तस्ते' इति प्रथम श्लोके । प्रतिपिपादयिषितानां शेषित्वादीनां स्थापकं समाख्यारूप-प्रमाणं "श्रीरित्येव च नाम ते भगवति' इत्युक्तं भगवत इव श्रियोऽपि पतिदासानां पत्नीदासत्वन्यायेन। 'मकारस्तु तयोर्दासः, 'अस्येशाना जगत' इति श्रुत्या च सिद्धम् । ब्रह्मादि समस्त शेषित्वं त्वद्दासदासीगणः'  इति अनेनोक्तं, ये तु; सत्तादि-विशिष्टो भगवानेव श्रीरिति वा, श्रीरूप नित्यविग्रहान्तर-विशिष्टः स एव अयं इति वा, दैत्य-मोहनभूमिका-परिग्रह-न्यायेन स्वयमेवभोगार्थं परिगृहीत कादाचित्क कान्ताविग्रहः स एव श्रीरिति वा स्वरूपैकदेशः पृथगहन्तया परिगृहीत स्त्रीरूपः श्रीरित्यादयः पक्षाः, तेऽपि, 'ह्रीश्च ते लक्ष्मीश्च पत्न्यौ इति श्रुतिमूलकेन ‘कान्तस्ते' इति व्यधिकरण-निर्देशेन निरवयवत्व-श्रुत्या च निराकृताः। ये पुनः भगवतः सत्ताहन्ता प्रभाव शक्ति विद्येच्छा भोक्तृतादिरूपा श्रीः इति विश्वप्रकृतिरिति च वदन्ति; तेऽपि 'ते' इति युष्मच्छब्देन, 'भगवति' इति संबोधनेन, ‘ते यवनिका' इति व्यधिकरण निर्देशेन, तन्मूलभूत श्रुत्यादिषु चेतन्त्व व्यपदेशेन च निराकृताः ।

द्वितीयेन श्लोकेन निरतिशय माहात्म्य-दया-सौलभ्य-पुरुषकारत्वादि गुणा उपपादिताः । तत्रायं आचार्यैः उक्तस्सङ्ग्रहः,

'अस्ति कहि फलदे पत्यौ कृत्य - द्वयं श्रियः ।
निग्रहाद्वारणं काले सन्धुक्षणमनुग्रहे ।। इति ।

तृतीयेन मोकेन श्रियः सकल पुरुषार्थप्रदत्वादयो गुणा उच्यते । ननु सात्वते, भगवतो मोक्षप्रदत्वं, श्रियः ऐश्वर्य-प्रदत्वं च विभज्य उक्तं; तदत्र संसात्यक्षर-वैष्णवाध्वसु इति । विशेष वचनं प्रशंसामात्रपरं स्यात्; मैवं, तत्र एव

'यामालंब्य सुखेनेमं दुस्तरं हि गुणोदधिम् ।
निस्तरन्त्यचिरेणैव व्यक्त-ध्यानपरायणाः ।।

इति । स्वायम्भुवे 'संसारार्णव तारिणी' इति ब्राह्मपुराणे, लक्ष्मीनामसहस्रे 'सकृतिभाता सर्वार्तिसमुद्र-परिशोषिणी', 'भवभङ्गापहारिणी', 'परनिर्वाणदायिनी', 'ज्योतिष्मत्यमृतावहा' इत्यादि, वैष्णवे 'विमुक्तिफलदायिनी' इत्यादिभिः मोक्षप्रदत्वस्यापि उक्तत्वात् इति ।

तुरीयेन श्लोकेना भगवतः स्वरूप-विग्रह-अवतारेषु अयोगव्यवच्छेदमुखेन तद्वत् सर्वाकार- प्रधान - प्राप्यत्व - विभुत्वादयो गुणा उच्यन्ते ।

(i) अत्र केचिदाहुः - गद्ये श्रियोऽपि, नारशब्दान्तर्गतत्व-उक्तया जीवकोटित्वात् अणुत्वे सिद्धे सर्वगत्वादिगिरः प्रशंसामात्रपरा: मुक्तवत् ज्ञानानन्त्यपरा वेति न विभुत्वसिद्धिः इति ।

(ii) अन्ये तु; अस्या जीवत्वेऽपि विभुत्वं न विरुध्यते । 'एषोऽणुरात्मा' इत्यादि जीवविषयाणुत्व श्रुतेः प्रकरण - सन्निहित - बद्धविषयत्वात्, नित्यानां तु जीवत्व सामान्यात् अवगत-अणुत्वस्य बाधकाभावात् अणुत्वमेव, निर्विकारश्रुत्यनुरोधात् धर्मभूतज्ञानद्वारा मुक्तानन्त्यं, लक्ष्म्यास्तु 'यथा सर्वगतो विष्णुः तथैवेयं द्विजोत्तम', 'सर्वभूत स्थिता द्विज' इत्यादिभिः विभुत्व-अवगमात्, बाधकाभावाच्च विभुत्वे सिद्धे

'व्यापिनी सर्वगेत्याद्यास्सुसूक्ष्मेत्यादयस्तथा ।
श्री समाख्या-मिथो वैरं जह्युः तात्पर्यभेदतः ।।
शक्ति कालवशादस्या विभुत्वाद्युपपादकाः ।
प्रच्छन्न-स्पष्ट-जैनाध्व-निरोधात् अगतीकृताः ।।

इति । एवं च परतन्त्र-चेतनत्वरूप-जीवलक्षणयोगात् जीवान्तर्भाव इति आहुः ।

(iii) अपरे तु – लक्ष्म्याः चेतनत्वात् अचिदन्यत्वं, विभुत्वात् जीवादन्यत्वं, पारतन्त्र्यात् ईश्वरादन्यत्वं, न च सदसद्विलक्षणत्वादिष्विव अत्र विरोधः; द्विधात्म विभाग-वचनेषु अस्या अनुक्ति अविवक्षामात्रात्, वस्तुतः पतिपुत्र-व्यावृत्तपत्नी नयेन लक्ष्याः कोट्यन्तरत्वमेव युक्तं इति आहुः ।

(iv) इतरे तु - अस्तु जीवात् अन्यत्वं, तथापि सेयं ईश्वरकोटिः, विभूतिद्वय - शेषित्वादि - मात्रेण तल्लक्षण सिद्धेः, अत्र सर्वशेषित्वादिकं भगवतः, अस्यास्तु तदितर सर्वशेषित्वादिकं इति विभागः, जगत्कारणत्वादि मात्रेण ब्रह्मलक्षणं तु पतिमात्र गोचरं, 'नर संबन्धिनो नाराः। इति नारान्तः प्रवेशो भगवदिच्छामात्रसिद्ध-पतिपारतन्त्र्याभिप्रायेण इति आहुः ।

(v) वस्तुतस्तु; भवतु विभुत्वं ईश्वरत्वं पारतन्त्र्यं च, तञ्च पारतन्त्र्यं न भगवदिच्छामात्र सिद्धं, अपि तु सर्वभूतेश्वरत्वादि वचन साम्यात् उभयेच्छा सिद्ध सर्वमिति संप्रदाय इति आचार्याः प्राहुः ।

'अन्योन्येच्छा विघातादि निवृत्तौ तत्परत्वतः ।
ऐककण्ठ्यमशेषाणां आगमानां भवत्विति ।।
पञ्चस्वेतेषु पक्षेषु कश्चिदेकः प्रमाणवान् ।
स लक्ष्मीकस्य साम्राज्यं सर्वथा संप्रतिष्ठितम् ।।
इहैवं क्वचिदंशे तु संशयेऽपि विपश्चिताम् ।
उपयुक्तांश वैशद्यात् उपाय-फल-संभवः ।।

उक्तेषु पञ्चसु पक्षेषु अन्तिमः पक्ष एव प्रमाणवान्, पक्षान्तरेषु अपि लक्ष्मीकस्यैव नारायणस्य सांराज्यं सुप्रतिष्ठितं, उक्त रीत्या पञ्चमपक्ष एव प्रमाणवान् इति निर्णयाक्षमाणां अणुत्व-विभुत्व-जीवत्वेश्वरत्वोभय-इच्छासिद्ध-पारतन्त्र्यादौ संशयेऽपि पुरुषकारत्वादि वैशद्यात् उपायानुष्ठानादि संभव इति । अनेन नाम्ना मन्त्ररत्नगत श्रीशब्दार्थाभिज्ञत्वं उक्तम् ।

61. சதுச்ச்லோக்யர்த ஸாரஜ்ஞ: = சதுச்லோகியினுடைய ஸாரார்த்தத்தை அறிந்தவர். சதுச்லோகி என்பது ஸ்ரீ விஷயமாக நான்கு ச்லோகங்களாலே ஸ்ரீ ஆளவந்தார் அருளிச்செய்த ஸ்துதி. அதினுடைய தாத்பர்யத்தை அறிந்தவரென்றபடி. அதாவது -

ஸ்ரீ அணுஸ்வரூபை என்றும், எம்பெருமானுக்கு ஜீவர்கள் போலே பரதந்த்ரை என்றும், புருஷகாரமாத்திரம் பண்ணுமவள் என்றும், உபாயத்தில் ஸம்பந்தமில்லை என்றும், மோக்ஷம் தவிர மற்ற புருஷார்த்தங்களைக் கொடுப்பவளென்றும், பகவானுடைய மோஹினீ ரூபம் போலே ஸ்ரீயும் ஒருரூபமே தவிர பகவானைக்காட்டிலும் வேறுபட்டவளன்று என்றும் - இப்படி பலர் பலவகையாக ஸ்ரீயினுடைய ஸ்வரூபாதிகளை குலையாநிற்க;

ஸ்ரீஆளவந்தார் சதுச்லோகியில் - ஸ்ரீயானவள் பகவானைப்போலே வேறு தத்வமே என்றும், விபுஸ்வரூபை என்றும், ரூபபேதமும் குணபேதங்களும் பெருமாளும் பிராட்டியுமாகப் பிரிவினை செய்துகொள்ளப்பட்டவைகள் என்றும், ஸ்ரீக்கு ஸ்த்ரீத்வமும் - பகவத்பாரதந்த்ர்யமும் - புருஷகாரத்வாதிகளும் பெருமாளுக்கு பும்ஸ்த்வம் – கோபித்துக் கொள்ளுதல் - சிக்ஷை செய்தல் முதலானதுகளும் விபாகத்தால் வந்தவைகள் என்று அருளிச்செய்தார் என்று உணர்ந்தவர். இந்த விபாகம் ஒருநாளும் மாறாதபடி நித்யேச்சாஸித்தம். ஸ்ருஷ்டி முதலானதுகள் எம்பெருமானுக்கும், புருஷகாரத்வாதிகள் பிராட்டிக்கும் 1கூறாக விபஜித்த வ்யாபாரங்கள். ஆகையால் எப்பொழுதும் பிரியாதபடி பிராட்டியோடு கூடியே உபாயாதிகள் அனுஷ்டிக்க வேணுமென்னும் சுருதி, ஸ்மிருதி, பகவத்சாஸ்திரம், இதிஹாஸம், புராணம், ஸம்ப்ரதாயங்கள் இதுகளுக்கு இணங்க சதுச் ச்லோகிக்கு பாஷ்யம் அருளிச்செய்தருளினாரென்றபடி.

1  கூறாக விபஜித்த = தனித்தனியாகப் பிரிக்கப்பட்ட