திங்கள், 6 ஜூலை, 2020

ஸ்ரீ தேசிக‌ அஷ்டோத்த‌ர‌ ச‌த‌ம்–உத்த‌ர‌ பாக‌ம்

63. षडङ्गयोग-निर्णेता षडङ्गयोगस्य (= आनुकूल्यादि अङ्गपञ्चक युक्तस्य अङ्गिनो न्यासस्य), पूर्वपक्षनिरासपूर्वकं निक्षेपरक्षायां निर्णयात् षडङ्गयोग-निर्णेता ।
तत्र एवं पूर्वपक्ष-सङ्ग्रह उक्तः - भक्ति-व्यतिरिक्तं उपायान्तरं नास्ति;
कुतः
‘स्वरूप-लक्ष्मानुष्ठान विध्यदृष्टेनिषेधतः ।
ऐक्यादशक्तेरख्याते: संप्रदाय विरोधतः ।। इति ।

राद्धान्तस्तु - अस्त्येव भक्ति-व्यतिरिक्त उपायान्तरं, स्वरूपलक्षणादि दर्शनात्; निषेधाद्यभावाच्च । तथा हि साध्यरूपमेव प्रपदनं न सिद्धरूपं अविधेयत्व प्रसङ्गात्; अत एव

“फलादिभ्यो विभिन्नत्वात् प्रपत्तिः विध्यनन्वयात्।
विधेयान्तर हानेश्च नाधिकारि-विशेषणम् ।।'

विध्यनन्वयादिति । “व्रज" इति विध्यनन्वयप्रसङ्गात् इत्यर्थः । तच्च, वाक्यान्तरार्थ ज्ञानमूलकम् । हेत्वन्तरं च न योगाभ्यासादिरूपं, सौकर्याभाव-प्रसङ्गात्; किं तु सहकारि - विशेष - सहकृत मन एवेति पूर्वमेव उक्तम् । इदं च न अनुभवरूपं अलौकिक-विषयत्वेन अर्वाचीन-प्रत्यक्षादि फलत्वायोगात्, शास्त्रफलत्वे अविधेयत्व प्रसङ्गात्; किं तु, असमर्थस्य समर्थं प्रति स्वाभिमतं फलं त्वयैव साध्यं इति इष्टप्रकाशनरूप - प्रार्थनात्मकं स्मृतिरूपम् । सकृत् प्रत्यय - रूपायास्तस्याः श्रवणजनित संस्कारेण स्वतः संभवेऽपि गुरूपसति मन्त्रनियम-विशेषित्वेन विधिविषयत्वम् । न च अस्यापि स्मृतेः अनुकूलरूपत्वात् फलरूपत्वात् न विध्यत्वं इति वाच्यं; तदनुकूल-व्यापारस्य आज्यावेक्षणादाविव विधेयत्व-उपपत्तेः, तस्मात् प्रपदनस्वरूपं ज्ञातुं शक्यत एव । नापि लक्षणानुपपत्तिः; तथा हि - रक्षापेक्षापूर्वक- भरन्यासत्वं तल्लक्षणम् । कपोत-वृत्तान्तादौ गेहागत्यादिमात्रे औपचारिकश्शरणागति शब्द: यद्वा, नानार्थ इति न तत्र अव्याप्तिर्दोषाय । वस्तुतस्तु अनन्यसाध्ये स्वाभीष्ट-साधन-समर्थ-वशीकरणं कपोत-वृत्तान्त - साधारणं प्रपत्ति-लक्षणं इति न अव्याप्ति प्रसङ्गः । नापि अनुष्ठानादर्शनं विभीषण-मुचुकुन्द-क्षत्रबन्ध्वादि-अनुष्ठान - दर्शनात्, विधौ सति अनुष्ठान-दर्शनाकांक्षणस्य अतिमन्दत्वात् च । यत्तु उक्तं; विधिरेव न दृश्यत इति । तन्न; 'मुमुक्षुर्वे शरणमहं प्रपद्ये। इति मन्त्रस्य यच्छब्दानुपहतविधि-शक्तित्वे न विधिपरत्व-स्थापनात, 'ओमित्यात्मानं युञ्जीत2 इति विधिप्रत्यय श्रवणञ्च । तस्य च

'तेषां तु तपसां न्यासमतिरिक्तं तपः श्रुतम् ।
इदं महोपनिषदं देवानां गुह्यमुत्तमम् ।।

इति भगवच्छास्त्रे स्पष्टतरं उपब्रह्मणेन शरणागति-परत्वौचित्यात् इति । यत्तु उक्तं निषेधादिति तन्न; नान्यः पन्थाः' इति उत्सर्गापवाद-न्यायेन विहितव्यतिरिक्तस्य एव निषेधात्, प्रपदन-विधेश्च समर्थितत्वात्; अन्यथा प्रकृतविद्या न्यासविद्यादेरपि निषेध प्रसङ्गात् । यद्वा, 'तमेवं विद्वान्' इति सर्वविद्यापूर्वरङ्ग वाक्यार्थ ज्ञानपरं । अथवा, सर्वविद्यास्वरूपं वेदनत्वेन अविशेषात्-अनूद्य उत्तर-पूर्वाघ-अश्लेक्ष-विनाश - लक्षणं अमृतत्वं वदति । एवं - शब्दः प्रकृतमाहात्म्येन सह तत्तत् विद्या-वेद्याकारं समुपस्थापयति । वस्तुतः तु "नान्यः पन्थाः' इत्यत्र न अन्यत्व प्रतियोगि' वेदनं; अपि तु तमिति प्रकृत: परमपुरुषः "तमेव विदित्वा' इति श्रुत्यन्तरैकार्थ्यात् । वेदनेतर-निषेध- भाष्यं तु फलिताभिप्रायेण इति आचार्यः अधिकरणदर्पणे प्रपञ्चितत्वात् इति।

ऐक्यं तु भगवच्छास्त्रे भक्ति-प्रपत्योः पृथक् प्रपञ्चितत्वात् निरस्तम् । न च गुरुविधि-वैय्यर्थ्य; अशक्तं प्रत्येव न्यासविधानात् । अशक्तस्य शक्तं उद्दिस्य अनन्यसाध्य स्वाभीष्ट रक्षाभरसमर्पणं हि प्रपदनम् । 'नाना शब्दादि भेदात्। इत्युक्त शब्दभेदस्य न्यासोपासनयोः एव मुख्यत्वात् च । तदुक्तं न्यासविंशत्यां

'नाना शब्दादि भेदादिति तु कथयता सूत्रकारेण सम्यक्

न्यासोपासे विभक्ते यजनहवनवच्छब्द भेदादभाक्तात्' इति ।

उक्तं च अस्मदाचार्यः श्रीवत्सकुलतिलक श्रीनिवाससूरिभिः सारार्थसङ्ग्रहे 'न्यासभक्तयोश्शब्दभेदो मुख्यो भक्तिद्वये तु न' इति । नापि अशक्यानुष्ठानत्वं अस्मदुक्त प्रपदनस्य शक्यानुष्ठानत्वात् । सर्व व्यापार-उपरमस्य अनभ्युपगमात् । न हि यः कश्चित् प्रपन्नः अत्यन्तं निर्व्यापारो दृष्टः श्रुतो वा । भगवत्प्रवृत्तिविरोधिस्वप्रवृत्ति - निवृत्तिः प्रपत्तिरिति प्राचीनैः अभिहितम् । भगवत्प्रवृत्तिविरोधि स्वप्रवृत्तिश्च स्वरक्षणार्थं स्वातन्त्र्येण स्वव्यापारो वा, देवतान्तराश्रयणं वा, दुस्सह ब्रह्मविदपचारोवेति तदखिलं परित्याज्यं इति तेषां अभिप्रायः इति । यत्तु अख्यातेरिति तत्त्वैवाख्यानं अभिव्यक्ति, अस्य चोद्यस्य विध्यभावचोद्य परिहारेण दत्तोत्तरत्वात् । पृथगुपायत्वस्यापि अहिर्बुध्न्यादिषु प्रसिद्धत्वात् । कापिलादिषु अस्य उपादानं न दृश्यत इति चेत्; न नहि सर्वं सर्वत्र उपादीयते; कापिले कर्मयोगस्य, पातञ्जले ज्ञानयोगस्य अनुपादानात् इति । यत्तु संप्रदायविरोध इति तन्न; श्रुतिस्मृत्यादि-अनुसारेण उपदेशानुष्ठान-पारंपर्यस्य महात्मसु दर्शनात्, पृथगुपायत्व निबन्धनाभावेऽपि उपदेशेनैव संप्रदाय सिद्धेः, स्वातन्त्र्यं नास्तीति विपरीत निबन्धनाभावात्, स्तोत्र-गद्यादिषु पृथगुपायत्वस्य स्पष्ठं अभिधानात् चेति न कापि अनुपपत्तिः । विस्तारश्च निक्षेपरक्षायां द्रष्टव्यम् । अनुष्ठान प्रकारस्तु श्रीमति रहस्यत्रयसारे द्रष्टव्यः । तत् प्रदर्शनार्थमेव हि तदारम्भः । रहस्यत्वात् न अत्र लिखितः, तत एव मन्त्रार्थोऽपि ।

அவதாரிகை
அங்கியின் ஸ்வரூபாதிகளைச் சொல்லுகிறார்.

63.

63. ஷடங்கயோக நிர்ணேதா - ஷட் = ஆறுவிதங்களான, அங்க = முன்சொன்ன அங்கங்களையுடைய, யோக = ப்ரபத்தியாகிற யோகத்துக்கு, நிர்ணேதா = உறுதியைச் செய்யுமவர். ஷடங்க யோகமென்னுமது ஐந்து அங்கங்களோடு சேர்க்கையாலே சொன்ன தாகவுமாம். இங்கு ப்ரபத்தியை யோகமாகச் சொன்னது பக்தி போல இதுவுமொரு ஸ்மிருதி விசேஷமென்கிற கருத்தாலே; ஆனால், அங்கு இடைவிடாமல் உள்ளனவும் நினைக்கவேணும்; இங்கு ஒருதடவையே போதும்; இதுதான் பேதம்.

இங்கு சிலர், பக்தியை நீக்கி வேறொரு உபாயமில்லையே யென்ன; பக்தியினாலே அல்லது ப்ரபத்தியினாலே என்று சொல்லிற்றே யென்ன; ஆனால் ப்ரபத்தியின் ஸ்வரூபம் இவ்விதமென்று அறியக்கூடாததே, விதிக்கவுமில்லையே, அநுஷ்டானமுமில்லையே, செய்யத்தக்கதுமில்லையே என்று இதுமுதலாக சங்கிப்பார்கள். அவர் களை ப்ரபத்தி ஸ்வரூபம் இன்னதென்றும், 'வ்ரஜ' என்று விதியுளதென்றும், விபீஷணாழ்வான் முதலானோர் செய்தார்களென்றும், அநுஷ்டிக்க வேண்டியதே என்றும், அதிகாரி விசேஷணத்துக்குச் சொன்ன லக்ஷணத்தோடு சேராதது என்றும், இது ஸாத்தியமான உபாயமென்றும், வ்யாஜமாத்திரமாகையால் உபாயத்வித்துவ மில்லை" என்றும், ஸித்தோபாயத்துக்குக்கொற்றையும்' வாராதென்றும், இது வைதிகமானாலும் ஸத்தியவசனாதிகள் போலே எல்லாருக்குங்கூடுமென்றும், இதுமுதலானதுகளால் நிக்ஷேப ரக்ஷாதிகளில் பரக்க அருளிச்செய்து தெளிவித்தாரென்றபடி.

64: सप्ततन्तुकृदुत्तमः

अत एव सप्ततन्तुकृतां अध्वरकृतां उत्तमः सप्ततन्तुकृदुत्तमः

'समित्साधनकाधीनां यज्ञानां न्यासमात्मनः ।
नमसा योऽकरोद् देवे स स्वध्वर इतीरितः ।। इति वचनात् ।

64.

64. ஸப்ததந்து க்ருதுத்தம: - ஸப்ததந்து = யாகத்தை, க்ருத் = செய்தவர்களுள், உத்தம: = மேலானவர். இங்கு யாகமென்று ப்ரபத்தியைச் சொல்லுகிறது. இது யாகமானபடியை 'ஸமித்ஸாதந காதீநாம்' (145") என்கிற ச்லோகம் முதலானதுகளில் கண்டுகொள்வது.

இச்லோகத்தின் பொருள் - 'நெய், ஸமித்து முதலான த்ரவ்யங்களைக்கொண்டு செய்யும் யஜ்ஞங்களைக்காட்டிலும் நம: என்று சொல்லி சரணாகதி பண்ணுவது மேலான யாகம்' என்று. இப்படிச் செய்தவனை 'செய்த வேள்வியன்' என்றும், 'நூறு யாகம்' பண்ணினவன்' என்றும் புகழப்பட்டது. இப்படி அருளிச்செய்து அநுஷ்டித்தவரென்றபடி.

65. अष्टाक्षरैक – निरत : व्यापकमन्त्रेषु श्रीमदष्टाक्षरस्यैव तत्व-हित-पुरुषार्थ-कण्ठोक्तित्वेन भगवन्मूर्ति साधारणत्वेन प्रधानत्वात् अष्टाक्षरैकनिरतः । तदुक्तं,

'सिद्धे महति पाण्डित्ये सनिर्वेदश्चतुर्विधे ।
प्रणव द्विचतुष्काद्यैः प्रशान्तैरेव मोक्ष्यते ।।' इति ।

प्रशान्तैः, शान्तिरसजनकैः इत्यर्थः । सर्व मन्त्रापेक्षया अष्टाक्षरस्यैव प्राधान्यं ऋषिभिः एव उक्तं -

'बहवोऽपि महात्मानो मुनयः सनकादयः ।

अष्टाक्षरं समाश्रित्य ते जग्मुर्वैष्णवं पदम् ।।
'यथा सर्वेषु देवेषु नास्ति नारायणात्परः ।
तथा सर्वेषु मन्त्रेषु नास्ति चाष्टाक्षरात्परः ।।
'भूत्वोर्ध्वबाहुरत्राद्य सत्यपूर्वं ब्रवीमि वः ।
हे पुत्रशिष्याः श्रुणुत न मन्त्रोऽष्टाक्षरात्परः ।।
तदर्चनपरो नित्यं तद्भक्तस्तं नमस्कुरु ।
तद्भक्ता न विनश्यन्ति ह्यष्टाक्षरपरायणाः ।।
'आसीना वा शयाना वा तिष्ठन्तो यत्र कुत्र वा ।
नमो नारायणायेति मन्त्रैकशरणा वयम् ।।
'किं तत्र बहुभिर्मन्त्रैः किं तत्र बहुभिर्वतैः ।
नमो नारायणायेति मन्त्रस्सर्वार्थसाधकः ।।
इत्यादिभिः ।

65. அஷ்டாக்ஷரைக-நிரத: - அஷ்டாக்ஷர = திருமந்திரத்தில், ஏக = முக்கியமாக, நிரத: = விசேஷமான ரதியை உடையவர். அஷ்டாக்ஷரம், வாஸுதேவத்வாதசாக்ஷரம், விஷ்ணுஷடக்ஷரம் என்கிற வ்யாபகத்ரயத் தில் அஷ்டாக்ஷரம் முக்கியமானது. இது முக்கியமாம்படி எங்ஙனே என்னில் - தத்துவம் - ஹிதம் - புருஷார்த்தம் இதுகளைத் தெளிவாக வெளியிடுகையாலும், எல்லா பகவந் மூர்த்திகளுக்கும் ஸாதாரண மாகையாலும், எல்லா ஆசார்யர்களும், ஆழ்வார்களும், மஹர்ஷிகளும் விரும்பிப்போந்தார்களாகையாலும் இம்மந்திரம் ஸர்வ மந்திரங்களுள் முக்கியமானது, என்றிப்படி பல ப்ரமாண ஸம்ப்ரதாயங்களை அருளிச் செய்து அதிலேயே ஊன்றிப்போந்தவ ரென்றபடி.